आशा नाम नदी
- 1 minआशा नाम नदी मनोरथजला तृष्णातरङ्गाकुला
रागग्राहवती वितर्कविहगा धैर्यद्रुमध्वंसिनी ।
मोहावर्तसुदुस्तरातिगहना प्रोत्तुङ्गचिन्तातटी
तस्या: पारगता विशुद्धमनसो नन्दन्ति योगीश्वरा: ॥
सुभाषितेषु इदं सुभाषितं प्रायः मम इष्टतमम् । यतः यदाकदापि मम चित्तं किञ्चन वस्तु वा कञ्चिदनुभवं वा इच्छति, तदा एतेन सुभाषिताधारेण इच्छायाः मूलं ज्ञातुं प्रयत्नं करोमि । तेन ज्ञानेन निष्प्रयोजककार्ये दुःखयोनिकर्मणि वा आसक्तिः न्यूना भवति । के परमार्थतः सुखं प्राप्नुवन्ति इत्यस्य सुभषितस्य अभिप्रायं चित्रनिरूपणं च वयम् अत्र पश्यामः ।
जगति सर्वे जन्तवः सर्वेषु कालेषु कर्मप्रवृत्ताः सन्ति । सामान्यतः तानि कर्माणि आशाश्रितानि एव । मानवः स्वस्य मनसि अनेकाः आशाः सङ्कल्प्य बृहदाशाग्रन्थिं वहति । एतस्मात् आशाग्रन्थेः मनोरथाः नद्याः जलमिव प्रवहन्तः तस्य मानवस्य जीवनवृत्तान्तं शासति । एतस्याः नद्याः प्रवाहं वशीकर्तुम् अशक्तः मानवः दुःखमाप्नोति इत्यत्र संशयः नास्ति । अस्मिन् सुभाषिते आशायाः लक्षणानि नद्याः अवयवरूपेण वर्णितानि सन्ति । नद्यां जले नक्राः जलस्य उपरि डयमानाः खगाः च जनं रागद्वेषयुक्तकर्मसु प्रेरयन्ति । वाञ्छितफलस्य अप्राप्तिः दुःखं जनयति । अभिलाषासक्तः सर्वदा प्रेयस्करफलापेक्षां कुर्वन् तद्विषये चिन्तां करोति । सा चिन्ता पारगम्या न नद्याः उत्तुङ्गतीरः इव । श्रीकृष्णेन गीतायां विषयचिन्तनस्य परिणामः उक्तः अस्ति । विषयकामेण क्रोधः जायते, क्रोधात् सम्मोहः भवति, सम्मोहात् स्मृतिविभ्रमः, तत्पश्चात् बुद्धिनाशः भवतीति । यथा धूमेन वह्निः आव्रियते, तथा मोहेन आवृतम् अज्ञानं जनं सुदुस्तरमोहावर्ते आपातयति । एतादृश्यां नद्यां तरन् को वा सुखमाप्नुयात् ? परन्तु यः आशारहितः भवति तस्य क्लेशः एव न भविष्यति । पुनश्च सर्वाः आशाः बन्धकाः इत्यपि नास्ति । यः भगवदभिलाषो भूत्वा कर्मफले निःस्पृहः भवेत् सः निरायासेन आशा नाम नद्याः पारं गच्छति। नन्दति अपि।